पुराणसंहितां तस्मै ददै व्यासो महामुनिः ॥
अस्य दीका यथा आख्यानादिभिः सह पुराणं चक्रे व्यास इत्यर्थः । तत्र च
स्वयंदृष्टार्थकथनं प्राहुराख्यानकं बुधाः ।
श्रुतस्यार्थस्य कथनमुपाख्यानं प्रचक्षते ॥
गाथास्तु पितृपृथृप्रिभृतिमीतयः ॥ कल्यशुहिः श्राद्चकल्पादिनिर्ण्यः ॥
सुमतिश्चाग्निवर्चश्चमित्रायुः शांशपायनः ।[1]
अकृतव्रणो ऽथ सावर्णिः षद् शिष्यास्तस्य चाभवन् ॥
टीका ॥ सुमत्यादयस्तु रिमहर्षणस्य षद् शिष्यास्तत्कृताः षद् संहिता जगृहुः ॥
काश्यपः संहिताकर्ता सावर्णिः शांशपायनः ।[2]
लौमहर्षणिका चान्या तिसृणां मूलसंहिता ॥[3]
टिका ॥ अकृतव्रण एव काश्यपःकाश्यपो ह्यकृतव्रण इति वायूत्केः । रौमहर्षणिका
चान्या रोमहर्षणेन पुनः संक्षेपेण प्रोक्ता ॥
चतुष्टयेनाप्येतेन संहितानामिदं मुने ।
टीका ॥ एतासां काश्यपदिकृतानां समंहितानामर्थचतुष्टयेनापि मूलभूतेन
तत्सारोहारात्मकमिदं श्रीविष्णुपुराणं मुने मैत्रेय मया कृतमिति शेषः ॥[4]
- ↑ Le ms. de la Bibliothèque du Roi lit शांसपायनः.
- ↑ Le ms. de la Bibliothèque du Roi lit ici सांसपायनः ; l’orthographe que je suis est celle de l’Âgnêya.
- ↑ Le ms. de la Bibl. du Roi lit रीमहर्षणिका. Râdhâkânta donne लौ°.
- ↑ Vâichṇava Purâṇa, cité par Râdhâkânta, au mot Purâṇa, p. 2194 et 2195 ; ms. beng. n° xii, fol.145 v. l. 1 sqq.