न विस्मयेत तपसा वदेदिष्ट्वा च नानृतं ।
Na vismayêta tapasâ, vadêd-isṭwâ cha nânrtaṃ ;
नार्त्तो ऽ प्यपवदेद्विप्रान् न दत्वा परिकीर्त्तयेत् ॥
Nârttô ’pyapayadêdviprân ; na datwâ parikîrttayêt ;
धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः ।
Dharmaṃ çanæh sañchinuyâdvalmîkamiva puttikâh ;
परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥
Paralôkasahâyârtaṃ sarvabhûtânyapîḍayan.
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
Nâmutra hi sahâyârtaṃ pitâ mâtâ cha tishṭhatah
न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥
Na putradâraṃ na jñâtir, dharmas tishṭhati kêvalâh.
एकः प्रजायते जन्तुरेक एव प्रलीयते ।
Êkah prajâyatê jantur, êka êva pralîyaté ;
एको ऽ नुभुङ्क्ते सुकृतमेक एव च दष्कृतं ॥
Ekô ’nubhugktê sukrtam, êka êva cha duskrtaṃ.
मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं ज्ञितौ ।
Mrtaṃ çarîram utsrjya kâshṭalôshṭasamaṃ xitꜵ